|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.199. अध्यायः 199
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति अप्रतिग्राह्यप्रतिग्रहे अभोज्यभोजने च प्रायश्चित्तकथनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
[युधिष्ठिर उवाच।
उक्तास्तु भवता भोज्यास्तथाऽभोज्याश्च सर्वशः।
अत्र मे प्रश्नसन्देहस्तन्मे वद पितामह॥ 13-199-1(89116)
ब्राह्मणानां विशेषेण हव्यकव्यप्रतिग्रहे।
नानाविधेषु भोज्येषु प्रायश्चित्तानि शंस मे॥ 13-199-2(89117)
भीष्म उवाच। 13-199-3x(7436)
हन्त वक्ष्यामि ते राजन्ब्राह्मणानां महात्मनाम्।
प्रतिग्रहेषु भोज्ये च मुच्यते येन पाप्मनः॥ 13-199-3(89118)
घृतप्रतिग्रहे चैव सावित्री समिदाहुतिः।
तिलप्रतिग्रहे चैव सममेतद्युधिष्ठिर॥ 13-199-4(89119)
मांसप्रतिग्रहे चैव मधुनो लवणस्य च।
आदित्योदयनं स्थित्वा पूतो भवति ब्राह्मणः॥ 13-199-5(89120)
काञ्चनं प्रतिगृह्याथ जपमानो गुरुश्रुतिम्।
कृष्णायसं च विवृतं धारयन्मुच्यते द्विजः॥ 13-199-6(89121)
एवं प्रतिगृहीतेऽथ धने वस्त्रे तथा स्त्रियाम्।
एवमेव नरश्रेष्ठ सुवर्णस्य प्रतिग्रहे। 13-199-7(89122)
अन्नप्रतिग्रहे चैव पायसेक्षुरसे तथा।
इक्षुतैलपवित्राणां त्रिसन्ध्येऽप्सु निमज्जनम्॥ 13-199-8(89123)
व्रीहौ पुष्पे फले चैव जले पिष्टमये तथा।
यावके दधिदुग्धे च सावित्रीं शतशोऽन्विताम्॥ 13-199-9(89124)
उपानहौ च च्छत्रं च प्रतिगृह्यौर्ध्वदेहिके।
जपेच्छतं समायुक्तस्तेन मुच्यते पाप्मना॥ 13-199-10(89125)
क्षेत्रप्रतिग्रहे चैव ग्रहसूतकयोस्तथा।
त्रीणि रात्राण्युपोषित्वा तेन पापाद्विमुच्यते॥ 13-199-11(89126)
कृष्णपक्षे तु यः श्राद्धं पितॄणामश्नुते द्विजः।
अन्नमेतदहोरात्रात्पूतो भवति ब्राह्मणः॥ 13-199-12(89127)
न च सन्ध्यामुपासीत न च जाप्यं प्रवर्तयेत्।
न सङ्किरेत्तदन्नं च ततः पूयेत ब्राह्मणः॥ 13-199-13(89128)
इत्यर्थमपराङ्णे तु पितॄणां श्राद्धमुच्यते।
यथोक्तानां यदश्नीयुर्ब्राह्मणाः पूर्वकेतिताः॥ 13-199-14(89129)
मृतकस्य तृतीयाहे ब्राह्मणो योऽन्नमश्नुते।
स त्रिवेलं समुन्मज्ज्य द्वादशाहेन शुध्यति॥ 13-199-15(89130)
द्वादशाहे व्यतीते तु कृतशौचो विशेषतः।
ब्राह्मणेभ्यो हविर्दत्त्वा मुच्यते तेन पाप्मना॥ 13-199-16(89131)
मृतस्य दशरात्रेण प्रायश्चित्तानि दापयेत्।
सावित्रीं रैवतीमिष्टिं कूश्माण्डमघमर्षणम्॥ 13-199-17(89132)
मृतकस्य त्रिरात्रे यः समुद्दिष्टे समश्नुते।
सप्तत्रिषवणं स्नात्वा पूतो भवति ब्राह्मणः॥ 13-199-18(89133)
सिद्धिमाप्नोति विपुलामापदं चैव नाप्नुयात्॥ 13-199-19(89134)
यस्तु शूद्रैः समश्नीयाद्ब्राह्मणोऽप्येकभोजने।
अशौचं विधिवत्तस्य शौचमत्र विधीयते॥ 13-199-20(89135)
यस्तु वैश्यैः सहाश्नीयाद्ब्राह्मणोऽप्येकभोजने।
स वै त्रिरात्रं दीक्षित्वा मुच्यते तेन कर्मणा॥ 13-199-21(89136)
क्षत्रियैः सह योऽश्नीयाद्ब्राह्मणोऽप्येकभोजने।
आप्लुतः सह वासोभिस्तेन मुच्येत पाप्मना॥ 13-199-22(89137)
शूद्रास्य तु कुलं हन्ति वैश्यस्य पशुबान्धवान्।
क्षत्रियस्य श्रियं हन्ति ब्राह्मणस्य सुवर्चसम्॥ 13-199-23(89138)
प्रायश्चित्तं च शान्तिं च जुहुयात्तेन मुच्यते।
सावित्रीं रैवतीमिष्टिं कूश्माण्डमघमर्षणम्। 13-199-24(89139)
तथोच्छिष्टमथान्योन्यं सम्प्राशेन्नात्र संशयः।
रोचना विरजा रात्रिर्मङ्गलालम्भनानि च॥ ॥ 13-199-25(89140)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनद्विशततमोध्यायः॥ 199 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-199-5 आदित्योदयनं तत्पर्यन्तं स्थित्वा॥ 7-199-6 विवृतं लोकप्रत्यक्षं धारयन्॥ 7-199-11 ग्रहसूतकयोः कारागारस्ताशौचवतोः॥ 7-199-13 नच संध्यामुपासीतेत्यत्र अस्नात इति शेषः। न सङ्किरेदिति पुनर्भोजन न कुर्यादित्यर्थः॥ 7-199-14 अश्नीयुरित्यर्थमिति सम्बन्धे अपराह्णे क्षुद्बोधात्सम्यगन्नमश्नन्त्वित्यर्थः। केतिताः निमन्त्रिताः॥ 7-199-16 हविरन्नम्। 7-199-17 सावित्रीं जपन्। रैवतीं रैवतं साम। इष्टिं पवित्रेष्टिम्। कूश्माण्डं यद्देवादेवहेडनमित्यनुवाकपञ्चकम्। अघमर्षणं जले निमज्ज्य दश प्रणवसंयुक्तगायत्र्याः ऋतंचेति तृचस्य वा त्रिर्जपः॥ 7-199-20 अशौचं प्रायश्चित्ताभाव एव॥ 7-199-25 विरजा दूर्वा रात्रिर्हरिद्रेति विश्वः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|